कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित् किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया ।
द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥
— Vākpati; quoted in Kavīndravacanasamuccaya (Subhāṣitaratnakoṣa) of Vidyākara.